उडुपीतीर्थक्षेत्रयात्रानुभवः

 


                   उडुपीतीर्थक्षेत्रयात्रानुभवः

            उडुपीं गच्छामः इति वाक्यश्रवणमात्रेण गृहे हर्षोल्लासः आवृतः। बालिकयोः आनन्दस्य तु पारमेव नासीत्। तत्रस्था मनोहरकृष्णमूर्तिः बालानां वयस्यभावम् जनयति, सर्वान् आकर्षयत्यपि। सर्वेषां  सः कृष्णः प्रियः एव किल। तथैव चौकीभोजनम्, उत्सवाः, समुद्रः इत्यादिना सर्वदा उडुपी अस्माकं आद्यप्रवासस्थानम् भवति।

  कोरोनानिमित्तेन बहुकालात् कुत्रापि न गतः। जीवनं स्तब्धम् इत्येवं अनुभवः आसीत्। पुत्र्यौ गृहमेतत् कारागृहवत् वर्तते इति सर्वदा दूषयतः स्म। प्रवासप्रिये मम पुत्र्यौ कदा कुत्र गच्छावः इत्येव चिन्तयतः।  प्रवासवार्तया ताभ्यां बन्धमुक्तानुभवः प्राप्तः।

           झटिति सर्वसन्नद्धता आरब्धा। अनेके विघ्नाः प्राप्ताः। वस्तुतः सुब्रह्मण्यक्षेत्रे कार्यमासीत्। तत्र गत्वा उडूपीं गच्छामः इति चिन्तनं आसीत्। परन्तु सुब्रह्मण्यषष्ठीप्रयुक्तं उत्सवादिकारणेन गमनागमनम् निर्बद्धं अभवत्। तस्मात् प्रथमं उडुपीमेव गच्छामः इति निर्णयः अभवत्।

           मम तु सुब्रह्मण्यस्वामिनः दर्शनं दुर्लभम् आसीत्। कारणं न जाने। दशवर्षाणि व्यतीतानि । अनेके अवसरा अपि प्राप्ताः। परन्तु केनचित् विघ्नेन दर्शनं नाभवत्। एकदा तु क्षेत्रं प्राप्तमपि आशैचनिमित्तेन स्वामिनः दर्शनं नाभवत्। इदानीमपि दर्शनं भवति वा न वा इति व्याकुलता आसीत् ।

          एतेन सह  तद्दिने द्वितीया पुत्री अनारोग्येन पीडिता अभवत्। अपरः विघ्नः। गच्छामः वा न वा इति चिन्तितम्। आवाभ्यां तस्याः उपचारानन्तरं स्वास्थ्ये किञ्चित् सुपरिणामः यदा दृष्टः तदा चीटिकां कारयित्वा अन्ते रात्रौ उडुपीम् प्रयाणं प्रारब्धवन्तः।

           दिव्यक्षेत्रम् उड्डपी। ब्राह्मीमुहूर्ते तत्र गतवन्तः। उत्तरादिमठे कोष्ठकं प्राप्य एकवारं स्नानादिकार्यं समाप्य कृष्णदर्शनार्थं गतवन्तः। जनाः केsपि न आसन्।  कोरोना कारणात् अधिकारक्षणं आसीत्। द्वाररक्षकाः सार्धाष्टावादनपर्यन्तं दर्शनं नास्ति इति द्वारे एव अस्मान् स्थगितवन्तः। पर्याय-अदमारुमठस्य प्रधानव्यवस्थापकस्य निर्देशानन्तरम् अन्तः प्रवेशः लब्धः । 

           मध्वसरोवरः पूर्वापेक्षया किञ्चित् व्यत्यस्तः दृष्टः। दक्षिणपार्श्वे स्नानार्थं सोपानमेकम् निर्मितम्। उत्तरभागे  पूर्वाभिमुखमेकम् भवनं निर्मितम्। प्रशान्तेः परं स्थानं मध्वसरोवारः इति सर्वदा मम अनुभवः। इदानीं जनराहित्यात् इतोप्यधिका शान्तिः। बालिके जलक्रीडया अत्यन्तहृष्टे अभवताम्।  

           तदानीं तत्र पर्यायस्वामिपादाः श्रीश्री ईशप्रीयतीर्थाः आगताः। बहुकालपर्यन्तं ते तत्र मत्स्यानां कृते भोजनादिकं ददति स्म। कूर्मः एकः स्वामिपादानां पादसमीपे आगत्य शिर एव केवलं जलाद्बहिः आनीय तैः प्रदत्तम् आहारं स्वीकुर्वन् आसीत्। तन्मध्ये स्वामिनः मम पतिं दृष्ट्वा कृष्णप्रसादार्थं अत्रैव आगच्छन्तु इति शिष्यमुखात् आदिदिषुः।

           स्नानाह्नीकं समाप्य प्रियकृष्णस्य दर्शनार्थं गतवन्तः। अभिषेकः प्रचलन् आसीत्। परन्तु कोरोनात् नवग्रहगोलकात् दर्शनं निरुद्धमासीत्। चन्द्रशालायाः अग्रे स्थित्वा द्रष्टव्यमासीत्। तथैव दर्शनं कृत्वा आर्तिक्यादिकं दृष्ट्वा कोष्ठकम् पूनरागतवन्तः। समीपतः कृष्णदर्शनम् न प्राप्तं इति चिन्तयन्ती आगता।

           मध्याह्ने भोजनार्थं चौकीभोजनगृहं गतवन्तः। पीठस्थस्वामिपादैः तीर्थं स्वीकृत्य अतिष्ठाम, तदा अस्माकं पूर्वपरिचितः वेणुमाधवाचार्यः तत्रागतः। सः अदमारुमठस्य  प्राचीनः च मुख्यव्यवस्थापकः। स्नेहयुक्तं तं संप्रार्थ्य कृष्णदर्शनं गोलकात् प्राप्य धन्याः अभवाम। वेणु आचार्येण कृतेन आरक्षकानां निर्देशानुसारेण मठे गमनागमनं सुलभमभवत्।  तदराभ्य पञ्चदिनपर्तन्तं प्रतिदिनं सरोवरस्नानम्, कृष्णदर्शनम्, प्रसादस्वीकरणम् च दिनचर्या अभवत्। सायङ्काले रथोत्सवं, चामरसेवां ,दीपाराधनं,अवधानसेवां दृष्ट्वा अलौकिकानन्दम् प्राप्तवन्तः। इदानीमपि स्मृतिपटले तदेव भवति।

           तत्रतः पलिमारुमूलमठं गत्वा विद्यामान्यतीर्थानाम् संदर्शनम् प्राप्तम्। तेषां दिव्यसन्निधाने किञ्चित् अनुवादः अपि अभवत्। प्रायः ते एव प्रथमतया ब्राह्मणस्त्रीणां शास्त्राध्ययनविषये प्रमाणं प्रदर्श्य अस्माकं उपकारं कृतवन्तः। इदानीं धैर्येण स्त्रीणां अध्ययनं प्रचलति इति तेषां अनुग्रहः एव। तान् कृतज्ञतापूर्वकम् नमस्कृत्य तत्रतः एललूरु शिवालयम् गत्वा ईश्वरदर्शनं प्राप्तवन्तः ।  श्रीवादिराजयतिना सन्दर्शितः प्रसिद्धः शिवालयः नृसिंहशालिग्रामः अत्र अस्ति इति अर्चकः सूचितवान्। तस्योपरि अभिशिक्तजलेन ईश्वरस्यापि अभिषेकः भवति इति अस्माकं नूतनविषयः अभवत्।

           तत्रतः दुर्गामन्दिरं प्राप्तम्। दिव्यां देवीं दृष्ट्वा धन्याः सर्वे वयं अभवाम। रात्रेः आर्तिक्यकालमपि सम्प्राप्तम्। संदृश्य तत् तत्रतः पाजकम् गतवन्तः। रात्रिः आसीदपि ज्येष्ठाः आचार्याः दर्शनार्थं सर्वत्र  अस्मान् नीतवन्तः। पुत्र्यौ दिव्यसन्निधाने मध्वविजयस्य काञ्चन श्लोकान् पठितवत्यौ। तच्छ्रुत्वा ते प्रसन्नताम्  प्राकट्य प्रसादं प्रददुः।

           तत्रतः उडुपीगमनसमये  मार्गं पश्यन्ती  बालकेन वासुदेवेन क्रमितः मार्गः अयं इति मध्वविजयोक्तिं स्मृत्वा उल्लसिता अभवम्। पुत्र्योः अपि सूचितवति। 

           ऊडुपीं प्राप्तवन्तः। पुत्र्योः समुद्रगमनेच्छा अधिका आसीत्। मल्पे समुद्रतीरम् गतवन्तः। विशालसागरतीरे जलक्रीडायां घण्टाद्वयम् तेषां क्षणद्वयमिव आनन्देन व्यतीतम्। मम तु भयात् दिनद्वयमिति यावदाभासत।

           एवं अस्माकं उडुपीयात्रा सम्पन्नाभूत्। स्वामिपादानानाम् अनुज्ञां प्राप्य तत्रतः सुब्रह्मण्यक्षेत्रं गतवन्तः।

           मार्गमध्ये पुत्तूरुनगरे मम सख्याः सुजातायाः गृहं वर्तते। तस्याः स्नेहायुक्ताह्वानम् स्वीकृत्य तस्याः गृहं गतवन्तः। तेषां प्रीत्यादराथित्यं स्वीकृत्य ताम् मिलित्वा च सन्तुष्टा अभवम्।

            तत्रतः सुब्रह्मण्यक्षेत्रं प्राप्य मठस्य मूलयतेः अनिरुद्धतीर्थस्य वृन्दावनदर्शनम् कृतवन्तः। कुमारधारातीर्थस्नानम् , दर्पणतीर्थस्नानम्, वेदव्याससंपुटस्य ,लक्ष्मीनृसिंहस्य दर्शनं च प्राप्तवन्तः।  बहुकालात् दर्शनाकांक्ष्यायाः मम आदिसुब्रह्मण्यस्य तथैव प्रसिद्धक्षेत्रमूर्तेः सुब्रह्मण्यस्य संदर्शनम् अभवत्। दयामयं देवं भक्त्या  नमस्कृतवती।

            सुब्रह्मण्यमठाधीशैः कृतां संस्थानपूजां सन्दृश्य मुख्यप्राणं नमस्कृत्य प्रसादं प्राप्य बेङ्गलूरु नगरं पुनरागतवन्तः।


         अर्चना पाण्डुरङ्गी


Comments

Popular posts from this blog

Exploring the unwavering devotion of Shri Vishwaprasana tirtha Swamiji - my experience of ayodhya yatra.

ನಾ ಕಂಡ ಶ್ರೀವಿಶ್ವಪ್ರಸನ್ನತೀರ್ಥ ಶ್ರೀಪಾದರ ಅಚಲಭಕ್ತಿ - ಅಯೋಧ್ಯಾ ಯಾತ್ರೆಯ ಅನುಭವಕಥನ

ಏಕಭುಕ್ತ ಮತ್ತು intermittent fasting