महाबलिपुरयात्रावर्णनं

 

                  महाबलिपुरयात्रावर्णनम्

नमस्सर्वेभ्यः ।

अहम् गतवारान्ते मया यापितस्य कलस्य विषये किञ्चित् लिखितवती ।

शनिवासरे प्रातः दशवादने गृहात् निर्गतवन्तः । एकघण्टानन्तरम् वयम् सर्वे महाबलिपुरम् इति एकं स्थलं प्राप्तवन्तः । तत्र कस्मिन्श्चन संश्रयस्थाने प्रकोष्टद्वयं स्वीकृत्य किञ्चित् समयं विश्रामं कृतवन्तः। अनन्तरं बालकानाम् कृते तत्र बहूनि क्रीडनकानि आसम्। मम पुत्रः पुत्री च मम भगिन्याः पुत्री च सर्वे क्रीडितवन्तः। अनन्तरम् सायं पञ्चवादने समुद्रस्य तीरे कालयापनं कृत्वा, अनतरं विविधाः विपण्यः दृष्ट्वा किञ्चित् क्रीत्वा च रात्रौ तत्रैव संश्रयस्थाने निद्रितवन्तः।

अग्रिमदिने द्विनिमेषाधिकसार्धषट्वादने सूर्योदयं दृष्टवन्तः। नारङ्गवर्णयुक्तं तप्यमानं पूर्णसूर्यं दृष्ट्वा आदित्यश्लोकान् पठित्वा अनन्तरं तत्र स्थलशयन-पेरुमाल् इति षट्त्रिंशत्तमं दिव्यमन्दिरं गतवन्तः। सः महाविष्णुः आदिशेषरहितः सन् स्थले शयनं कृत्वा दर्शनं ददाति इति स्थलशयन-पेरुमल् इति नामान्तरम् अस्ति । तदनन्तरं तत्र प्रतिमाकलाः दृष्ट्वा  दृष्ट्वा मध्यान्हे गृहं प्रत्यागतवन्तः।

श्री गुरुभ्यो नमः

नवरसनायकः रामः

रसाः नवविधाः भवन्ति। ते शृङ्गारः, वीरः, करुणा, अद्भुतः, हास्यम्, भयानकः, बीभत्सः, रौद्रः, शान्तः च। केनापि मनुष्येन अनुभूयमानः भावः एव रसः इति कथ्यते। रामः एकः परिपूर्णः पुरुषः अस्ति। रामायणे नाना रसाः दृश्यन्ते । यद्यपि "रामो विग्रहवान् धर्मः" इति विशेषणं भवति तथापि स्वयमपि अनेकान् रसान् प्रदर्शयति। 

सर्वानां रसानां प्रधानः च राजा च शृङ्गाररसः इति प्रथमं शृङ्गाररसं वदामि। प्रेमः अथवा रतिः इत्यपि अस्य अर्थः भवति। श्री रामः सीतया सह यदा वने भ्रमणं कृतवान् तदा सः सीतायामेव शृङ्गाररसस्य प्रदर्शनं कृतवान्। अपि च प्रेम्णा सीतायाः इच्छायाः पूर्तिं कर्तुं मायामृगस्य मार्गणं कर्तुं च प्रयत्नं कृतवान्।

द्वितीयः रसः वीरः - यदा सः विश्वामित्रेण सह यज्ञरक्षणार्थं गतवान् तथैव जनकमहाराजेन प्रचालितं धनुर्यज्ञं प्रत्यपि गतवान्। तत्र ऋषेः विश्वामित्रस्य आज्ञया ईश्वरधनुषः भङ्गं कृतवान् । तदा तस्य वीररसः दृश्यते। 

तृतीयः रसः करुणारसः - यदा जयन्तः काकासुरनाम्ना सीतां पिडितवान्, तदा रामः एकं धर्भं अस्त्ररूपेण प्रयुक्तवान् । सः असुरः तु सर्वलोकान् गत्वा अन्यदेवान् अपि क्षमां याचितवान्। केनापि रक्षणं प्राप्तुं अशक्तः सः पुनः रामं प्रति क्षमां याचितवान्। तदा करुणासागरः रामः अस्त्रार्थं केवलं एकं नेत्रं एव स्वीकृत्य तं रक्षितवान्। तत्र करुणारसः दृश्यते। अनन्तरं यदा मरणकालं प्राप्तं जटायुं दृष्टवान् तदा तस्मै जलं दत्वा सद्गतिं दत्तवान्। अत्रापि करुणा दृश्यते।

चतुर्थः रसः अद्भुतरसः - यदा वानराः समुद्रे सेतुं निर्मितवन्तः तदा कथं शिलाः जले प्लवन्ति इति अद्भुतं आश्चर्यं च प्रदर्शितवान् । 

पञ्चमः रसः हास्यससः - यदा शूर्पणखा रामं परिणेतुं ऐच्छत्, रामेण अनुपासिता सा लक्ष्मणं प्रत्यगच्छत्। तस्याः कार्यं दृष्ट्वा रामः हास्यं एव कृतवान्।

षष्टः रसः भयम् - किमपि अधर्मं कार्यं कर्तुं भयं प्रदर्शयति रामः। उदाहरणार्थं स्त्रीणां वधः न कर्तव्यः इत्यस्तीति कारणात् सः ताटकां मारितुं शङ्कते। तदनन्तरं विश्वामित्रस्य आज्ञया एव करोति ।

सप्तमः रसः बीभत्सरसः - रामरावणयुद्धानन्तरं तत्र मृतानां सैनिकानां देहान् दृष्ट्वा बीभत्सं प्रकटयति । 

अष्टमः रसः रौद्रः - अत्यन्तकोपस्य कारणात् जातः भावः एव रौद्ररसः । "रामरावणयोर्युद्धं रामरावणयोरिव" इति ख्यातं वाक्यं अस्ति। तस्मिन् युद्धे रावणस्य वधं कर्तुं  रामः रौद्रभावं प्रदर्शयति ।

नवमः रसः शान्तः - रामः सर्वदा ऋषिषु विद्वत्सु शान्ततया दर्शनं ददाति । अतः रामः एकः नवरसनायकः इति वक्तुं शक्नोति। 

भरतमुनिः अपि नाट्यशास्त्रे एवं वदति -

शृङ्गारं क्षितिनन्दीनी विहरणे वीरम् धनुर्भन्जने 

कारुण्यं बलि भोजने अद्भुतरसं सिन्धौ गिरि स्थापने । 

हास्यं शूर्पणखामुखे भयम् अघे बीभत्सम् अन्यामुखे 

रौद्रम् रावणमर्दने मुनिजने शान्तम् वपुः पातु नः ॥

एतावान् रामः अस्मान् पातु इति प्रार्थयामि।


Comments

Popular posts from this blog

Sri Vyasaraja: A Historical Reappraisal – Dispelling Myths and Misconceptions

Savitri: The Embodiment of Feminine Strength and Devotion

A Bhāratīya Rājanīti- Purāṇic Perspective on Tax Collection and Governance: Lessons from the Rule of Kārtavīryārjuna