ओलपिक्-क्रीडाविजयः - लघुप्रबन्धः

                     


             ओलम्पिक्-क्रीडाविजयः

अस्माकं प्रधानमन्त्रिणः स्तुत्यम् अनुकरणीयं आचरणम् ।गतमासे एव सम्पन्नासु टोक्योलम्पिक्-स्पर्धासु भारतेन सप्त पदकानि प्राप्तानि – एतत् वयं जानीमः एव । क्रीडादिसामर्थ्यवृद्धिः सङ्कल्पमात्रेण धनविनियोगमात्रेण वा न भवति । सामर्थ्यवताम् अन्वेषणं तेषां योग्यप्रशिक्षणं समुचितानां साधनानां प्रापणं समर्थ्यप्रदर्शनाय अवसरदानम् इत्यादयः बहवः अंशाः अनुष्ठिताः चेदेव पदकजयशीलानां तरुणानां विकासः भवेत् । भारतेन अद्यत्वे एतस्मिन् क्षेत्रे विशेषावधानं दीयमानम् अस्ति । अतः एव आधिक्येन पदकानि प्राप्तुं शक्तानि । ये पदकानि प्राप्तवन्तः तथैव पदकानि प्राप्तुम् असमर्थाः अपि विशेषयोग्यतां ये प्रदर्शितवन्तः ते अपि वस्तुतः अभिनन्दनार्हाः एव । फलाफलं भवति देवाधीनम् । किन्तु प्रयत्नः भवति मानवाधीनः ।

एतादृशेषु अन्यतमा आसीत् मीराबाईचानु । सा भारोन्नयनस्पर्धायां रजतपदकं प्राप्तवती । यदा पदकं प्राप्य स्वजन्मस्थलं प्रति आगता तदा तया कृतं प्रथमं कार्यं इम्फालप्रदेशं प्रति गमनागमनाय साहाय्यं कृतवतां पञ्चाशतोत्तरैकशतसङ्ख्याकानां (150) ट्रक् चालकानां सम्मानम् । धनाभावात् सा गमनागमनाय ट्रक् चालकैः साहाय्यं प्राप्नोति स्म । तेभ्यः सर्वेभ्यः भोजनसत्कारं परिकल्प्य वस्त्रमपि सा उपायनीकृतवती| 

                    अस्मत्प्रधानमन्त्रिणा कृतं किञ्चन स्तुत्यम् आचरणमपि अत्र उल्लेखम् अर्हति इति अहं मन्ये । ये पदकं प्रप्तवन्तः ते सर्वे तेन झटिति दूरवाण्या अभिनन्दिताः एव । महिला हाकीस्पर्धायां भारतीयदलेन विशिष्टं सामर्थ्यं प्रदर्शितमपि  दैवदुर्विपाकात् पदकं न प्राप्तम् । तस्मात् सर्वाः गणस्त्रियः अश्रूणि स्रावयन्त्यः क्रीडाङ्गणात् बहिः आगताः । किन्तु तावता ताभिः प्राप्तम् आसीत् प्रधानमन्त्रिणः दूरवाण्याह्यानम् । प्रधानमन्त्री  एकैकस्याः विशेषसामर्थ्यार्थम् अभिनन्द्य विशदाश्रूणि हर्षाश्रुत्वेन परिवर्तितवान् । उन्नते पदे स्थितेन कीदृशाम् आचरणं करणीयम् इत्येतत् स्वीयेन व्यवहारेण सः दर्शितवान् । उपदेशः यावन्तं प्रभावं जनयेत् तस्य शतगुणितं प्रभावं जनयति आचरणम् । स्तुत्याचरणकर्तृणां परम्परा अभिवर्धतां नित्यशः ।



Comments

Post a Comment

Popular posts from this blog

Exploring the unwavering devotion of Shri Vishwaprasana tirtha Swamiji - my experience of ayodhya yatra.

ನಾ ಕಂಡ ಶ್ರೀವಿಶ್ವಪ್ರಸನ್ನತೀರ್ಥ ಶ್ರೀಪಾದರ ಅಚಲಭಕ್ತಿ - ಅಯೋಧ್ಯಾ ಯಾತ್ರೆಯ ಅನುಭವಕಥನ

ಏಕಭುಕ್ತ ಮತ್ತು intermittent fasting