उडुपीतीर्थक्षेत्रयात्रानुभवः

उडुपीतीर्थक्षेत्रयात्रानुभवः उडुपीं गच्छामः इति वाक्यश्रवणमात्रेण गृहे हर्षोल्लासः आवृतः। बालिकयोः आनन्दस्य तु पारमेव नासीत्। तत्रस्था मनोहरकृष्णमूर्तिः बालानां वयस्यभावम् जनयति, सर्वान् आकर्षयत्यपि। सर्वेषां सः कृष्णः प्रियः एव किल। तथैव चौकीभोजनम्, उत्सवाः, समुद्रः इत्यादिना सर्वदा उडुपी अस्माकं आद्यप्रवासस्थानम् भवति। कोरोनानिमित्तेन बहुकालात् कुत्रापि न गतः। जीवनं स्तब्धम् इत्येवं अनुभवः आसीत्। पुत्र्यौ गृहमेतत् कारागृहवत् वर्तते इति सर्वदा दूषयतः स्म। प्रवासप्रिये मम पुत्र्यौ कदा कुत्र गच्छावः इत्येव चिन्तयतः। प्रवासवार्तया ताभ्यां बन्धमुक्तानुभवः प्राप्तः। झटिति सर्वसन्नद्धता आरब्धा। अनेके विघ्नाः प्राप्ताः। वस्तुतः सुब्रह्मण्यक्षेत्रे कार्यमासीत्। तत्र गत्वा उडूपीं गच्छामः इति चिन्तनं आसीत्। परन्तु सुब्रह्मण्यषष्ठीप्रयुक्तं उत्सवादिकारणेन गमनागमनम् निर्बद्धं अभवत्। तस्मात् प्रथमं उडुपीमेव गच्छामः इति निर्...