श्रीवेंकटेश्वरस्वामिनश्चुबुके चंदनस्य लेपनम्

 



श्रीवेङ्कटेश्वरस्वामिनश्चुबुके चंदनस्य लेपनम् 

अद्य अहम् श्रीवेङ्कटेश्वरस्य चुबुके चंदनस्य लेपनम्  किमर्थं भवति , इति वदामि।बहुकालेभ्य: पूर्वम् अनंतालवार नाम्ना एक: ब्राह्मणः: आसीत् । स: श्री रामानुजस्य शिष्य:। एकवारं श्रीरामानुज: अनंताळ्वारम् आदिष्टवान् “ भवान् तिरुमलक्षेत्रे वेङ्कटेश्वरस्वामिन: कृते एकां तुलसीं वाटिकां निर्माय तत्र एव निवसतु “, इति।

अनंताळ्वार: तस्य गुरो: आदेशम् अङ्गीकृतवान् ।तस्य भार्यया सह तिरुमलक्षेत्रम् आगतवान्।तस्मिन् काले तिरुपतिक्षेत्रम् अरण्येन सद्दशम् असीत् ।जना: अपि न्यूना: आसन् ।अनंताळ्वार: तत्र एकम् सुन्दरम् कुटीरम् निर्मितवान् तथा तुलसीवाटीकां निर्मितुम् उद्युक्त​: अभवत्।प्रतिदिनम् किञ्चित् किञ्चित्  कार्यं कृत्वा तुलसीवाटीकां स्थापितवान्।तस्य भार्या अपि साहाय्यम् कृतवती।सा बहुदूरात् कूप्या: जलम् अनीतवती।सा गर्भवती, तथापि वेङ्कटेश्वरस्य सेवां कर्तुम् शनैः शनैः चलित्वा वाटिकाया: कृते जलम् आनीतवती।

श्रीवेङ्कटेश्वर: करुणासिंधु:, अत: स: तस्य सेवकानाम् क्लेशम् न सोढुम् शक्तवान् अथवा स: तयो: उभयो: सेवया सन्तुष्टः असीत् । अत: अनंताळ्वारस्य भार्याया: साहाय्यम् कर्तुम् एकस्य बालकस्य रूपेण आगतावान्।

सा “ साहाय्यम् मास्तु”, इति उक्तवती किन्तु स: बालक: पुन: पुन: पृष्टवान्  ।  तस्य बालकस्य रुपम् बहुदिव्यम् आसीत्, अत:  सा अङ्गिकृतवती।

तत्र अनंताळ्वार: अश्चर्येण चिन्तितवान् “  सा गर्भवती तथापि कथं झटिति जलम् आनयति “ इति । तदा तं बालकं दृष्टवान् । स​: अपि तं बालकं निवारितवान् । किन्तु स​: बालक​: न निवृत्तः ।अत​: अनन्ताळ्वार : बहुकुपित​: अभवत् । स: हस्तेन एकम् खनित्रम् गृहीत्वा बालकं प्रति क्षिप्तवान्। तत् खनित्रम् बालकस्य चुबुके निविष्टम्  रक्तञ्च प्रसृतम्।

अनन्तरदिने अनंताळ्वार् तुलसीमालाम् नीत्वा मन्दिरम् आगतवान् । तत्र वेङ्कटेश्वरस्य चुबुके व्रणम् दृष्ट्वा तस्य अपराधम् ज्ञातवान्  दु:खितवान् च।अपराधम् स्वीकृत्य प्रार्थितवान्।

श्रीवेङ्कटेश्वरस्वामी मन्दहासेन उक्तवान्“ अहम् भवत: सेवया  सन्तुष्टः अस्मि। चिन्ता मास्तु। अहम् चंदनस्य लेपनम् करोमि। तेन व्रणः निवर्तते  ” इति।

एतेन कारणेन तस्मात् दिनात् इदानीं अपि सर्वे अर्चका: वेंकटेशवरस्य चुबुके चंदनस्य लेपनम् कुर्वन्ति।

तत् खनित्रम् इदानीम्  अपि “ कुलशेकरआलवार पड़ी” नामकस्य सोपानस्य समीपे , मुख्यद्वारस्य दक्षिणभित्त्या: ऊपरि स्थापितम् अस्ति। वयम् दृष्टुम् शक्नुम:।

भगवद्गिताया: श्लोक:( 11.55)

मत्कर्मकृत् मत्परामो मदभक्त: सङ्गवर्जित:।

निर्वैर: सर्वभूतेषु य: स: मामेति पाण्डव।


अन्वय:

य: मत्कर्मकृत् मत्पराम: मद्भक्त: सङ्गवर्जित: 

सर्वभूतेषु निर्वैर:  स: मामेति पाण्डव।

🙏🏻

साई वारणासि

Comments

Popular posts from this blog

Exploring the unwavering devotion of Shri Vishwaprasana tirtha Swamiji - my experience of ayodhya yatra.

ನಾ ಕಂಡ ಶ್ರೀವಿಶ್ವಪ್ರಸನ್ನತೀರ್ಥ ಶ್ರೀಪಾದರ ಅಚಲಭಕ್ತಿ - ಅಯೋಧ್ಯಾ ಯಾತ್ರೆಯ ಅನುಭವಕಥನ

ಏಕಭುಕ್ತ ಮತ್ತು intermittent fasting