Posts

Showing posts from August, 2021

श्रीवेंकटेश्वरस्वामिनश्चुबुके चंदनस्य लेपनम्

Image
  “ श्रीवेङ्कटेश्वरस्वामिनश्चुबुके चंदनस्य लेपनम्  अद्य अहम् श्रीवेङ्कटेश्वरस्य चुबुके चंदनस्य लेपनम्  किमर्थं भवति , इति वदामि।बहुकालेभ्य: पूर्वम् अनंतालवार नाम्ना एक: ब्राह्मणः: आसीत् । स: श्री रामानुजस्य शिष्य:। एकवारं श्रीरामानुज: अनंताळ्वारम् आदिष्टवान् “ भवान् तिरुमलक्षेत्रे वेङ्कटेश्वरस्वामिन: कृते एकां तुलसीं वाटिकां निर्माय तत्र एव निवसतु “, इति। अनंताळ्वार: तस्य गुरो: आदेशम् अङ्गीकृतवान् ।तस्य भार्यया सह तिरुमलक्षेत्रम् आगतवान्।तस्मिन् काले तिरुपतिक्षेत्रम् अरण्येन सद्दशम् असीत् ।जना: अपि न्यूना: आसन् ।अनंताळ्वार: तत्र एकम् सुन्दरम् कुटीरम् निर्मितवान् तथा तुलसीवाटीकां निर्मितुम् उद्युक्त​: अभवत्।प्रतिदिनम् किञ्चित् किञ्चित्  कार्यं कृत्वा तुलसीवाटीकां स्थापितवान्।तस्य भार्या अपि साहाय्यम् कृतवती।सा बहुदूरात् कूप्या: जलम् अनीतवती।सा गर्भवती, तथापि वेङ्कटेश्वरस्य सेवां कर्तुम् शनैः शनैः चलित्वा वाटिकाया: कृते जलम् आनीतवती। श्रीवेङ्कटेश्वर: करुणासिंधु:, अत: स: तस्य सेवकानाम् क्लेशम् न सोढुम् शक्तवान् अथवा स: तयो: उभयो: सेवया सन्तुष्टः असीत् । अत: अनंताळ्वारस्य भार्याया: साहाय्य